सकलसार्धशतकोटिभारतीयहृदयामोदी श्रीनरेन्द्रमोदी

श्रीगुरुभ्यो नमः। श्रीलक्ष्मीनारायणाय नमः । श्रीजयतीर्थगुरुभ्यो नमः । श्रीयदुपत्याचार्यगुरुभ्यो नमः ।

राराज्यते मे स्वान्ते सकलाधुनिकधरणीपतिसमभिपूजितशासनः भारतजननीगिरिकन्दरप्रसूतिः, मोदी सज्जनानाम्, अमोदी इतरेषां, माधवाशीर्वादपुष्टाङ्गः, सद्भिः कृतसङ्गः, आश्रितमुरारिशङ्करादिसुमनःपदः गाङ्गतरङ्ग इव देदीप्यमानः भगीरथ इव गीर्वाणतरङ्गिणीपथप्रवृत्तः भारतप्रियप्रधानसचिवो नरेन्द्रमोदी नाम । यद्यपि बहुवक्तव्यं तथापि यथामति श्रीनरेन्द्रमोदिनः उद्गमः,व्यक्तित्वं,तत्कृतभारतयोगदानं,वैशिष्ट्यं,नवभारतशिल्पित्वम् इति बिन्दुपञ्चकमाश्रित्य प्रस्तौमि

  • उद्गमः

सोऽयं बडनगरे हीराबेहेन्-दामोरददासदम्पत्योः लब्धजनिः गुजरातधेनुपयसां रसज्ञः बाल्य एव शालाप्रवृत्तः विरामे स्वतातस्य चायविक्रायकापणे परिवेशकवृत्तौ प्रवृत्तः समजनि । किशोरभावं परित्यजन् राष्ट्रीयस्वयंसेवकसङ्घे (आर्.एस्.एस्) प्रातरुत्थापन-चायदान-प्रातराशपरिवेशनकर्म सबहुमति प्रसन्नः सन् व्यधात् । ततः राष्ट्रीयस्वयंसेवकसङ्घ एव सम्मार्जनकर्म आकारि । ततश्च गेहं पर्यत्यजत् । हैमवते गिरौ साधुभिः सह नीतकालः भगवद्भक्त्यङ्कुरं साधुसहवासमेदुरेणावर्धयत्। पश्चात् अलङ्कृतगुजरातमुख्यमन्त्रिपदः अचिरात् भारतप्रधानमन्त्रित्वमापत् ।।

  • व्यक्तित्वम्

साधुस्वभावोऽसौ भारतजनन्याः तनयः अनारतं देशोन्नत्यै यतमानः बालेषु हार्दभाववान् सर्वान् भगिनीभ्रातॄन् मन्यमानः आरब्धान्तगामी आफलोदयकर्मा प्रजानां रक्षणाद्भरणात् पितृवद्विराजमानः नायकगुणानामाकारः भारतीयान्तरिक्षसंशोधनसंस्थायाः (इसरो) विज्ञानिनः चन्द्रयानवैफल्यानन्तरं प्रोत्साहवचनैः पितृवत् उत्सुकान् कुर्वन्, स्ववेतनमपि गङ्गाशुद्ध्यर्थ सम्पूर्णघट इव हूयमानः दीप्यते ।।

  • योगदानम्

भारतीवाचः नरेन्द्रमोदिनः भारतस्य कृते योगदानानि – १.मेक् इन् इण्डिया अभियानम् २.स्वच्छभारताभियानम् ३.अक्रमवित्तरोधः ४.द्विवारं चिकित्सकाघातः येन सप्ततिवर्षेष्वकृतं कर्म वर्षद्वये चकार ५.जी.एस्.टी ६.आयुष्मान् भारत् इत्यभियानम् येन दशलक्षाधिकाणां रोगिणामुपकृतिः समजनि ७.अच्छे दिन् अभियानम् ८.सप्तत्यधिकत्रिशततमानुच्छेदस्य निर्मूलनम् ९.पञ्चत्रिंशत्तमानुच्छेदस्य निर्मूलनम् १०.इस्रोसहायः इत्यादियोगदानैः मोदी विशिष्यते ।।

  • वैशिष्ट्यम्

श्रीमोदिनः असाधारणभाषणकला प्रजाः मुग्धाः विधत्ते । अभिवृद्ध्यादिविषयेषु सौष्ठवेन सप्रभावं भाषते । तत्प्रवचनम् प्रत्यग्रमपि जनसामान्यान् प्रभावयति । देशस्य इतरेषां नायकानां लिखितपाठकशैलीं नानुसरति मोदिवर्यः। तस्य वैशिष्ट्यं हि स्ववाक्शैल्या किम्प्रकारकानपि जनान् संस्पृशति । प्रधानमन्त्रिणः अपरं च वैशिष्ट्यं विश्वस्तरीयनेतॄणां वर्चः इव वर्चः भजति श्रीमोदी । व्यक्तित्वं तस्य प्रबलम् ।

किञ्च देशस्य प्रजाः एतावत्पर्यन्तं प्रजाभ्यः अगोचरानेव प्रधानमन्त्रिणः अद्राक्षुः । परमयं मध्येप्रजमेव सदा बम्भ्रमीति । स्वातन्त्रदिवसस्य ध्वजोत्तोलनभाषणेषु अन्ये प्रधानमन्त्रिणः रक्षाकवचस्य पृष्ठभागे भाषन्ते । किन्त्वयं महात्मा मोदी स्वप्राणानप्यविगणय्य रक्षाकवचं अलक्षयन् विहरति । स्वसुरक्षावलयमपि अतिक्रम्य शालासु सार्वजनिकप्रदर्शनालयेषु आबालवृद्धान् प्रहर्षयन् तुष्यति इत्यहो षट्पञ्चाषत्प्राङ्गुलहृदयवैशाल्यम् ।

  • नवभारतशिल्पी

एवमुक्तेन वर्णनेन विशदीभवत्येतत् असौ महात्मा मोदिवर्यः नूतनभारतामरावत्याः त्वष्टा इव अग्रे राममन्दिरनिर्माण,वेदवेदाङ्गशास्त्राध्ययनविघ्नध्वंसनादिकर्माणि कुर्वन् यशस्वी प्रप्रथमः प्रधानमन्त्री इत्यादिकीर्तिं लभमानः भारतरत्नादिपुरस्कारान् स्वीकरोतीति । सोऽयं देवकृतरतिः विधिवत् परिपालयन् हर्षप्रकर्षं दत्तात् इत्याशासे । विरमामि च विस्तरात् ।

।।श्रीकृष्णार्पणमस्तु।।

Published by अन्तरात्मा राचूरि

गीर्वाणवाण्याश्च सदाभिमानी कविर्बुभूषुः पदतर्कपाठी । वेदान्तपीयूषपिपासुरुद्यच्छ्रीकृष्णपादोत्पलमत्तभृङ्गः ।।

Join the Conversation

3 Comments

  1. सुमनोमोदचतुरनिबद्दनिबन्धबन्धितनरेन्द्रमोदींं आत्माराममविरतं स्मरामः

    Liked by 3 people

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: