त्रिशङ्कुः

श्रीः

श्रीजयतीर्थगुरुभ्यो नमः

अवित्त पुरा सूर्यवंशे यः स्वबाहुबलेन कृतदैत्यकौतुकः आसमुद्रक्षितीशः आजन्मशुद्धः आस्वर्गयशस्वी त्रिशङ्कुर्नाम महाराजः । धर्मेण इळां परिपालयत: सर्वत्र विजयिनः तस्य मनसि अनेन मर्त्यदेहेनैव स्वर्गारोहणं कार्यं इति लिप्सा समजनि | सः ततः क्रतुं कर्तुमुद्युक्तः तपोनिधिं नैशेशं वसिष्ठमुपेत्य पौरौहित्याय वव्रे। वसिष्ठः तु तस्य मनोरथं अपथे प्रवृत्तं बुद्ध्वा तदर्थानां प्रत्याचष्ट । तत् प्रत्याख्यानेन विद्धहृदयः राजा, वसिष्ठस्य शतपुत्रानुपेत्य सप्रश्रयं एकैकशः तमेवार्थं ययाचे । ते अपि तद्वचनं नाभ्यनन्दन् । तदा राजा परुषवचनैः तान् भ्रुशं अनिन्दत् । तदाकर्ण्य ते कृद्धाः तं प्रत्युत्तररूपेण चाण्डालो भव इति अशपन् । अथ (चाण्डालभवनान्तरं) सः त्रिशङ्कुः कथञ्चित् आत्मनः मनोरथं साधयितुं इच्छन् उपविश्वामित्रं अरवत । तदा विश्वामित्रः तां प्रवृत्तिं आकर्ण्य चाण्डालस्य अपि तस्य सप्ततन्तुं कर्तुं मति व्यधात् । अगदत् च राजन् ! मा भैषीः अहं त्वां याजयामि । स्वर्गं तव हस्तगतं जानीहि इति ततः सः यज्ञं निश्चित्य द्विजान् अकेतयत । अकरोत् च यज्ञाय महान्तं सम्भारम् । तथा सब्राह्मणैः विश्वामित्रः सदुष्करं शतक्रतुं समारम्भत । देवाः तु स्वाहाकारैः आहूयमनाः अपि न समागताः । सद्यः विश्वामित्रः यज्ञं त्यक्त्वा अडसम्पादितेन तपोबलेन त्रिशङ्कुं स्वर्गं आरोपयामास । तदा इन्द्रादयः निर्जरसः सदेहं चाण्डालं स्वर्गमारोहन्तं लघु अधः पातयामासुः । ततः त्रिशङ्कुः त्रायस्व माम् त्रायस्व माम् इति अस्वनत् । तदा तस्य पतनं दृष्ट्वा त्रिशङ्को तिष्ठ तिष्ठ इति उक्तवता कौशिकेन भूम्याकाशयोः मध्ये स्थापितः ।।

अस्याः कथायाः नीतिः तु –

कर्तव्यमेव कर्तव्यं कर्तव्यं लोकसम्मतं ।

अकर्तव्यं तु कुर्वाणैः त्रिशङ्कुः स्मर्यतां जनैः ।।

।।श्रीकृष्णार्पणमस्तु ।।

टिप्पणी –

अवित्त – विद सत्तायाम् ,लुङ् ।

महाराजः राजाहस्सखिभ्यष्टच्‌ (५.४.९१) यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण “राजन्”, “अहन्” उत “सखि” एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । तथा राम शब्दवत् इति ज्ञेयम्।।

मर्त्यदेहेन- मनुष्यदेहेन :- मनुष्या मानुषा मर्त्या । इत्यमरः।।

नैशेश – णिश समाधौ इत्यस्मात् धातोः कृत्सु निशः इति भवति । निशः – चित्तवृत्तिनिरोधः । निशस्य भावः नैशः ऋषिः इत्यर्थः ।

सप्रश्रयम् – आदरेण (respectfully) ।।

अरवत – रुङ् गतिरेषणयोः (अगच्छत्)।।

प्रवृत्तिः -( वार्ताः) वार्ता प्रवृत्तिर्वृत्तांतः।इत्यमरः ।।

सप्ततंतुः – (यज्ञं) सप्ततंतुश्शतक्रतुः ।इत्यमरः ।।

अकेतयत – कित निमन्त्रणे इत्यस्मात् धातोः लङ् ।। आमन्त्रणम्।।

सम्भारम् – उपकरणसिद्धता

अडसम्पादितेन अड उद्यमने इत्यस्मात् धातोः कृत्सु अडः इति रूपम् । अड- परिश्रमः

लघु – (शीघ्रम्) लघु क्षिप्रमरं दृतम् । इत्यमरः ।।

श्रीकृष्णार्पणमस्तु

Leave a comment

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: