श्रीजयतीर्थगुरुभ्यो नमः
देवे वर्षति यज्ञविप्लवरुषा वज्राश्मवर्षानिलैस्सीदद्बालपशु स्त्रियाऽऽत्मशरणं दृष्ट्वाऽनुकम्प्युत्स्मयः ।
उत्पाट्यैककरेण शैलमबलो लीलोच्छिलीन्ध्रं यथा बिभ्रद् गोष्ठमपान्महेन्द्रमदभित् पायान्न इन्द्रो गवाम् ।।
श्रीमद्भागवतम्,दशमस्कन्धः,चतुर्विंशोऽध्यायः

अथ नवनीतमोषकः परिहसितनिष्कलङ्कचन्द्रः घनाघनसुन्दरः भैष्मीपूजितविग्रहः सुवदनः सान्द्रानन्दः मन्दावलोकोत्किरत्कान्तिः चन्दनचर्चितः चक्राङ्कितचरणः कृष्णारामः वशीकृतयमः रमामुखसोमः स्ववाक्सुधानन्दितभूमिदेवः करुणावनमाली कंसारातिः स्वकृतगोर्धनोद्धरणेन चेतो मे स्वजते । कवे तच्चरितम् ।
अथ समुपस्थितकैशोर्यः सबलः वासवदेवः शातक्रतुं क्रतुं निराकृत । गोवर्धनस्य गोवर्धनस्य पणने न्ययोजयत् व्रजभुवः । एवं कृतस्वपणनान्तरायकरस्य अनन्तस्य महिमानं स्वमनसि परिमृज्य दिवस्पतिः घनमतिघनाघनं व्यधात् । पुरुहूतकृतापमानं ध्यात्वा तत्कृपाकरः गोवर्धनकरः रक्षितगोसमूहः आवासरं पाणिक्षिप्तविविधफलप्रसूतिगोवर्धनः शतमन्युममन्युं विधाय तेन स्तुतस्तुत्यः सन् तमनुजग्राह ।

दृष्टश्रुतानुभावोऽस्य कृष्णस्यामिततेजसः । नष्टत्रिलोकेशमद इदमाह कृताञ्जलिः ।।
मोषकः – चोरः । मुष स्तेये इत्यस्मात् धातोः ण्वुल्प्रत्ययः ण्वुल्तृचौ (३.१.१३३)
कवे – वदामि । (कुङ् शब्दे) इति धातुः ।
पणनम् – स्तुतिः (पण व्यवहारे स्तुतौ च) ।
गोवर्धनस्य गोवर्धनस्य – गोवर्धनपर्वतस्य या गौः – कान्तिः तस्या वर्धनः ।
घनाघनः – वर्षुकमेघः (Rainy Cloud) वर्षुकाब्दो घनाघनः इत्यमरः ।
कृष्णारामः – कृष्णा – द्रौपदी तस्या आरामः आनन्दवर्धकः ।
परिमृज्य – परि-इत्युपसर्गात् मृजूँ शुद्धौ इति धातोः ल्यप्-प्रत्ययः ।
वासवदेवः – वासवस्य – इन्द्रस्य । वासवो वृत्रहा वृषा । तस्य देवः स्वामी कृष्णः ।
दिवस्पतिः – इन्द्रः । शतमन्युर्दिवस्पतिः इत्यमरः ।
शतमन्युममन्युं विधाय – शतमन्युमिन्द्रम्। अमन्युं – न विद्यते मन्युः – कोपः यस्य सः तथोक्तः । तम् । अमन्युं विधाय – कृत्वा ।
रक्षितगोसमूहः – गवां समूहः – वेदाः,शास्त्राणि,धेनवश्च । रक्षितः गवां समूहः येन सः । कृष्णः ।